वांछित मन्त्र चुनें

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् । ते ह॒ नाकं॑ महि॒मान॑: सचन्त॒ यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥

अंग्रेज़ी लिप्यंतरण

yajñena yajñam ayajanta devās tāni dharmāṇi prathamāny āsan | te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ||

पद पाठ

य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् । ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥ १०.९०.१६

ऋग्वेद » मण्डल:10» सूक्त:90» मन्त्र:16 | अष्टक:8» अध्याय:4» वर्ग:19» मन्त्र:6 | मण्डल:10» अनुवाक:7» मन्त्र:16


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) आदि विद्वान् परमर्षिजन (यज्ञेन यज्ञम्-अयजन्त) अध्यात्मयज्ञ द्वारा यजनीय-सङ्गमनीय परमात्मा को अपने अन्दर संगत करते हैं-सम्यक् प्राप्त करते हैं (तानि धर्माणि) वे ध्यान समाधिरूप कर्म (प्रथमानि-आसन्)-प्रथम के-पूर्व के हैं (ते महिमानः) वे जीवन्मुक्त आत्माएँ (ह नाकं सचन्ते) अवश्य नितान्त सुख-मोक्ष को सेवन करते हैं (यत्र) जहाँ (साध्याः) साधनासिद्ध (देवाः) विद्वान् आत्माएँ (सन्ति) हैं ॥१६॥
भावार्थभाषाः - आदि विद्वान् परम ऋषिजन अध्यात्मयज्ञ के द्वारा-उपासना के द्वारा अपने अन्दर परमात्मा का साक्षात् किया करते हैं, वे सृष्टि के आरम्भ के कर्म हैं, जो मोक्ष को प्राप्त करानेवाले हैं, जहाँ जीवन्मुक्त पहुँचा करते हैं ॥१६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (देवाः) आदिविद्वांसः परमर्षयः (यज्ञेन-यज्ञम्-अयजन्त) अध्यात्मयज्ञेन यजनीयं सङ्गमनीयं परमात्मानं स्वस्मिन् सङ्गमयन्ति (तानि धर्माणि प्रथमानि-आसन्) तानि ध्यानसमाधिरूपाणि कर्माणि प्राथमिकानि खल्वासन् (ते ह नाकं महिमानः सचन्त) ते जीवन्मुक्तात्मानः नितान्तसुखं मोक्षं सेवन्ते (यत्र साध्याः देवाः सन्ति) यत्र साधनासिद्धा आत्मानः सन्ति ॥१६॥